|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.85. अध्यायः 085
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
अर्जुनेन शकुनितनयपराजयपूर्वकं तत्सेनावमर्दनम्॥ 1 ॥ ततः शकुनिभार्यया तेन स्वसुतवधसंभावनया रणाङ्गणमेत्यार्जुनस्य प्रसादनम्॥ 2 ॥ अर्जुनेन गान्धारीगौरवात्तत्संमाननपूर्वकं तत्तनयसमाश्वासनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
शकुनस्तनयो वीरो गान्धाराणां महारथः।
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः।
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना॥ 14-85-1(94869)
अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम्।
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः॥ 14-85-2(94870)
स तानुवाच धर्मात्मा बीभत्सुरपराजितः।
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम्॥ 14-85-3(94871)
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः।
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः॥ 14-85-4(94872)
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः।
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः॥ 14-85-5(94873)
ते वध्यमानाः पार्थेनि हयमुत्सृज्य संप्रमात्।
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्॥ 14-85-6(94874)
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः।
आदिस्यादिश्य तेजस्वी परानेतानवारयत्॥ 14-85-7(94875)
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः।
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्॥ 14-85-8(94876)
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्।
पार्थोऽब्रवीन्न मे वध्या राजानो राजसासनात्॥ 14-85-9(94877)
अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः।
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः।
स शक्रसमकर्माणं समावाकिरदाशुगैः॥ 14-85-10(94878)
तस्य् पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा।
अपाहरदमेयात्मा जयद्रथशिरो यथा॥ 14-85-11(94879)
तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते।
इच्छता तेन न हतो राजेत्यपि च ते विदुः॥ 14-85-12(94880)
गान्धारराजपुत्रस्तु पलायनकृतक्षणः।
ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव। 14-85-13(94881)
तेषां तु तरसा पार्थस्तत्रैव परिदावताम्।
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः॥ 14-85-14(94882)
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान्।
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः॥ 14-85-15(94883)
सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम्।
हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः॥ 14-85-16(94884)
नाभ्यदृस्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः।
रिपवः पात्यमाना वै ये सहेरन्महाशरान्॥ 14-85-17(94885)
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा।
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम्॥ 14-85-18(94886)
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम्।
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्॥ 14-85-19(94887)
तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः।
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्॥ 14-85-20(94888)
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता।
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ॥ 14-85-21(94889)
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च।
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव॥ 14-85-22(94890)
मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः॥ 14-85-23(94891)
इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम्।
ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम्॥ ॥ 14-85-24(94892)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चाशीतितमोऽध्यायः॥ 85 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|